न्याय दर्शनम् प्रथमोऽध्यायः प्रथम आह्निकः प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवित-ण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः १ दुः-खजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः २ प्र-त्यक्षानुमानोपमानशब्दाः प्रमाणानि ३ इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप-देश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ४ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ५ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ६ आप्तोपदेशः शब्दः ७ स द्विविधो दृष्टादृष्टार्थत्वात् ८ आत्मशरीरेन्द्रिया-र्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ९ इच्छाद्वेषप्रयत्न-सुखदुःखज्ञानान्यात्मनो लिङ्गम् १० चेष्टेन्द्रियार्थाश्रयः शरीरम् ११ घ्राण-रसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः १२ पृथिव्यापस्तेजो वायुराका-शमिति भूतानि १३ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः १४ बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् १५ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १६ प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः १७ प्रवर्तनालक्षणा दोषाः १८ पुनरुत्पत्तिः प्रेत्यभावः १९ प्रवृत्तिदोषजनितोऽर्थः फलम् २० बाधनालक्षणं दुःखम् २१ तदत्यन्तविमोक्षोऽपवर्गः २२ समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनु-पलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः २३ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् २४ लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टा-न्तः २५ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः २६ स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् २७ सर्वतन्त्रावि-रुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः २८ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः २९ यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ३० अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ३१ प्रतिज्ञाहेतूदा-हरणोपनयनिगमनान्यवयवाः ३२ साध्यनिर्देशः प्रतिज्ञा ३३ उदाहरणसाध-र्म्यात्साध्यसाधनं हेतुः ३४ तथा वैधर्म्यात् ३५ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ३६ तद्विपर्ययाद्वा विपरीतम् ३७ उदाहरणापेक्षस्तथे-त्युपसंहारो न तथेति वा साध्यस्योपनयः ३८ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ३९ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ४० विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ४१ इति प्रथम आह्निकः प्रथमोऽध्यायः द्वितीय आह्निकः प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्ष-परिग्रहो वादः १ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः २ स प्रतिपक्षस्थापनाहीनो वितण्डा ३ सव्यभिचारविरुद्धप्रकरणसमसाध्य-समकालातीता हेत्वाभासाः ४ अनैकान्तिकः सव्यभिचारः ५ सिद्धान्त-मभ्युपेत्य तद्विरोधी विरुद्धः ६ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ७ साध्याविशिष्टः साध्यत्वात्साध्यसमः ८ कालात्ययापदिष्टः कालातीतः ९ वचनविघातोऽर्थविकल्पोपपत्त्या छलम् १० तत्त्रिविधं वा-क्छलं सामान्यच्छलमुपचारच्छलं च ११ अविशेषाभिहितेऽर्थे वक्तुरभिप्राया-दर्थान्तरकल्पना वाक्छलम् १२ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थ-कल्पना सामान्यच्छलम् १३ धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचा-रच्छलम् १४ वाक्छलमेवोपचारच्छलं तदविशेषात् १५ न तदर्थान्तरभावात् १६ अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः १७ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः १८ विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् १९ तद्वि- कल्पाज्जातिनिग्रहस्थानबहुत्वम् २० इति द्वितीय आह्निकः इति प्रथमोऽध्यायः द्वितीयोऽध्यायः प्रथम आह्निकः समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः १ विप्रतिप-त्त्यव्यवस्थाध्यवसायाच्च २ विप्रतिपत्तौ च सम्प्रतिपत्तेः ३ अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ४ तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ५ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात्संशयेनासंशयो नात्यन्तसंशयो वा ६ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ७ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ८ पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात्प्रत्यक्षोत्पत्तिः ९ पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः १० युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावो बुद्धीनाम् ११ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः १२ सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः १३ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः १४ त्रैकाल्या-प्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः १५ प्रमेया च तुलाप्रामाण्यवत् १६ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः १७ तद्विनिवृत्तेर्वा प्रमाण-सिद्धिवत्प्रमेयसिद्धिः १८ न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः १९ क्वचिन्नि-वृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः २० प्रत्यक्षलक्षणानुपपत्तिरस-मग्रवचनात् २१ नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः २२ दिग्देश-कालाकाशेष्वप्येवं प्रसङ्गः २३ ज्ञानलिङ्गत्वादात्मनो नानवरोधः २४ तद-यौगपद्यलिङ्गत्वाच्च न मनसः २५ प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनि-कर्षस्य स्वशब्देन वचनम् २६ सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्ष-निमित्तत्वात् २७ तैश्चापदेशो ज्ञानविशेषाणाम् २८ व्याहतत्वादहेतुः २९ नार्थविशेषप्राबल्यात् ३० प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ३१ न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ३२ साध्यत्वादवयविनि संदेहः ३३ सर्वा-ग्रहणमवयव्यसिद्धेः ३४ धारणाकर्षणोपपत्तेश्च ३५ सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ३६ रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्र-माणम् ३७ नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ३८ वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ३९ तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ४० नातीतानागतयोरितरेतरापेक्षासिद्धिः ४१ वर्तमानाभावे सर्वाग्रहणम्प्रत्यक्षा-नुपपत्तेः ४२ कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ४३ अत्यन्तप्रायैकदेश-साधर्म्यादुपमानासिद्धिः ४४ प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ४५ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ४६ नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ४७ तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ४८ शब्दोऽनुमानमर्थ-स्यानुपलब्धेरनुमेयत्वात् ४९ उपलब्धेरद्विप्रवृत्तित्वात् ५० सम्बन्धाच्च ५१ आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः ५२ पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ५३ शब्दार्थव्यवस्थानादप्रतिषेधः ५४ न सामयिकत्वा-च्छब्दार्थसम्प्रत्ययस्य ५५ जातिविशेषे चानियमात् ५६ तदप्रामाण्य-मनृतव्याघातपुनरुक्तदोषेभ्यः ५७ न कर्मकर्तृसाधनवैगुण्यात् ५८ अभ्युपेत्य कालभेदे दोषवचनात् ५९ अनुवादोपपत्तेश्च ६० वाक्यविभागस्य चार्थ-ग्रहणात् ६१ विध्यर्थवादानुवादवचनविनियोगात् ६२ विधिर्विधायकः ६३ स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ६४ विधिविहितस्यानुवचनमनुवादः ६५ नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः ६६ शीघ्रतर-गमनोपदेशवदभ्यासान्नाविशेषः ६७ मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्य- माप्तप्रामाण्यात् ६८ इति प्रथम आह्निकः द्वितीयोऽध्यायः द्वितीय आह्निकः न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् १ शब्द ऐतिह्यानर्थान्तरभावा-दनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः २ अर्थापत्तिरप्रमा-णमनैकान्तिकत्वात् ३ अनर्थापत्तावर्थापत्त्यभिमानात् ४ प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ५ तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ६ नाभावप्रामाण्यं प्रमेयासिद्धेः ७ लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ८ असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ९ तत्सिद्धेरलक्षितेष्वहेतुः १० न लक्षणावस्थितापेक्षासिद्धेः ११ प्रागुत्पत्तेरभावोपपत्तेश्च १२ आदिमत्त्वा-दैन्द्रियकत्वात्कृतकवदुपचाराच्च १३ न घटाभावसामान्यनित्यत्वान्नित्येष्व-प्यनित्यवदुपचाराच्च १४ तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः १५ संतानानुमानविशेषणात् १६ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् १७ प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च १८ तदनुपलब्धेरनुपलम्भादावर-णोपपत्तिः १९ अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् २० अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः २१ अस्पर्शत्वात् २२ न कर्मानि-त्यत्वात् २३ नाणुनित्यत्वात् २४ सम्प्रदानात् २५ तदन्तरालानुपलब्धेरहेतुः २६ अध्यापनादप्रतिषेधः २७ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः २८ अभ्यासात् २९ नान्यत्वेऽप्यभ्यासस्योपचारात् ३० अन्यदन्यस्माद-नन्यत्वादनन्यदित्यन्यताभावः ३१ तदभावे नास्त्यनन्यता तयोरितरेतरापे-क्षसिद्धेः ३२ विनाशकारणानुपलब्धेः ३३ अश्रवणकारणानुपलब्धेः सतत-श्रवणप्रसङ्गः ३४ उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ३५ पाणि-निमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ३६ विनाशकारणानुपलब्धेश्चाव-स्थाने तन्नित्यत्वप्रसङ्गः ३७ अस्पर्शत्वादप्रतिषेधः ३८ विभक्त्यन्तरोपपत्तेश्च समासे ३९ विकारादेशोपदेशात्संशयः ४० प्रकृतिविवृद्धौ विकारविवृद्धेः ४१ न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ४२ द्विविधस्यापि हेतोरभावा-दसाधनं दृष्टान्तः ४३ नातुल्यप्रकृतीनां विकारविकल्पात् ४४ द्रव्यविकार-वैषम्यवद्वर्णविकारविकल्पः ४५ न विकारधर्मानुपपत्तेः ४६ विकारप्राप्ता-नामपुनरापत्तेः ४७ सुवर्णादीनां पुनरापत्तेरहेतुः ४८ न तद्विकाराणां सुवर्णभा-वाव्यतिरेकात् ४९ नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ५० नित्या-नामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ५१ अनवस्था-यित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ५२ विकारधर्मित्वे नित्यत्वाभावा-त्कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः ५३ प्रकृत्यनियमाद्वर्णविकाराणाम् ५४ अनियमे नियमान्नानियमः ५५ नियमानियमविरोधादनियमे नियमाच्चाप्र-तिषेधः ५६ गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्ण-विकारः ५७ ते विभक्त्यन्ताः पदम् ५८ व्यक्त्याकृतिजातिसंनिधावुपचा-रात्संशयः ५९ या शब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्युपचयवर्णसमासानु-बन्धानां व्यक्तावुपचाराद्व्यक्तिः ६० न तदनवस्थानात् ६१ सहचरणस्थान-तादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजस-क्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः ६२ आकृतिस्तदपेक्ष-त्वात्सत्त्वव्यवस्थानसिद्धेः ६३ व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृ-द्गवके जातिः ६४ नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ६५ व्यक्त्याकृ-तिजातयस्तु पदार्थः ६६ व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ६७ आकृतिर्जाति- लिङ्गाख्या ६८ समानप्रसवात्मिका जातिः ६९ इति द्वितीय आह्निकः इति द्वितीयोऽध्यायः तृतीयोऽध्यायः प्रथम आह्निकः दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् १ न विषयव्यवस्थानात् २ तद्व्यवस्था-नादेवात्मसद्भावादप्रतिषेधः ३ शरीरदाहे पातकाभावात् ४ तदभावः सात्म-कप्रदाहेऽपि तन्नित्यत्वात् ५ न कार्याश्रयकर्तृवधात् ६ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ७ नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ८ एकविनाशे द्वितीयाविनाशान्नैकत्वम् ९ अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः १० दृष्टा-न्तविरोधादप्रतिषेधः ११ इन्द्रियान्तरविकारात् १२ न स्मृतेः स्मर्तव्य-विषयत्वात् १३ तदात्मगुणसद्भावादप्रतिषेधः १४ नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् १५ ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् १६ नियमश्च निरनुमानः १७ पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः १८ पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः १९ नोष्णशीतवर्षाकालनिमित्त-त्वात्पञ्चात्मकविकाराणाम् २० प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् २१ अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् २२ नान्यत्र प्रवृत्त्यभावात् २३ वीतरागजन्मादर्शनात् २४ सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः २५ न संकल्पनि-मित्तत्वाद्रागादीनाम् २६ पार्थिवं गुणान्तरोपलब्धेः २७ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः २८ निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् २९ गन्धक्लेद-पाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ३० श्रुतिप्रामाण्याच्च ३१ कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ३२ महदणुग्रहणात् ३३ रश्म्य-र्थसंनिकर्षविशेषात्तद्ग्रहणम् ३४ तदनुपलब्धेरहेतुः ३५ नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ३६ द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ३७ अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ३८ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ३९ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ४० न रात्रावप्यनुपलब्धेः ४१ वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितो-ऽनुपलब्धिः ४२ अभिव्यक्तौ चाभिभवात् ४३ नक्तञ्चरनयनरश्मिदर्शनाच्च ४४ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ४५ कुड्यान्तरिता-नुपलब्धेरप्रतिषेधः ४६ अप्रतिघातात्संनिकर्षोपपत्तिः ४७ आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्येऽविघातात् ४८ नेतरेतरधर्मप्रसङ्गात् ४९ आदर्शो-दकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ५० दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ५१ स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संश-यः ५२ त्वगव्यतिरेकात् ५३ न युगपदर्थानुपलब्धेः ५४ विप्रतिषेधाच्च न त्वगेका ५५ इन्द्रियार्थपञ्चत्वात् ५६ न तदर्थबहुत्वात् ५७ गन्ध-त्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ५८ विषयत्वाव्यतिरेकादेकत्वम् ५९ न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ६० भूतगुणविशेषोपलब्धे-स्तादात्म्यम् ६१ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ६२ अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ६३ न सर्वगुणानुपलब्धेः ६४ एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ६५ विष्टं ह्यपर-म्परेण ६६ न पार्थिवाप्ययोः प्रत्यक्षत्वात् ६७ पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ६८ तद्व्यवस्थानं तु भूयस्त्वात् ६९ सगुणानामिन्द्रियभावात् ७० तेनैव तस्याग्रहणाच्च ७१ न शब्दगुणोपलब्धेः ७२ तदुपलब्धिरितरेतरद्रव्य- गुणवैधर्म्यात् ७३ इति प्रथम आह्निकः तृतीयोऽध्यायः द्वितीय आह्निकः कर्माकाशसाधर्म्यात्संशयः १ विषयप्रत्यभिज्ञानात् २ साध्यसमत्वादहेतुः ३ न युगपदग्रहणात् ४ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ५ क्रमवृत्ति-त्वादयुगपद्ग्रहणम् ६ अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ७ न गत्यभा-वात् ८ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ९ स्फटिकेऽप्यपरापरो-त्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः १० नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ११ नोत्पत्तिविनाशकारणोपलब्धेः १२ क्षीरविनाशे कारणानुपलब्धिव-द्दध्युत्पत्तिवच्च तदुपपत्तिः १३ लिङ्गतो ग्रहणान्नानुपलब्धिः १४ न पयसः परिणामगुणान्तरप्रादुर्भावात् १५ व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्य-निवृत्तेरनुमानम् १६ क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः १७ नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् १८ युगपज्ज्ञेयानुपलब्धेश्च न मनसः १९ तदात्मगुणत्वेऽपि तुल्यम् २० इन्द्रियैर्मनसः संनिकर्षाभावा-त्तदनुत्पत्तिः २१ नोत्पत्तिकारणानपदेशात् २२ विनाशकारणानुपलब्धेश्चाव-स्थाने तन्नित्यत्वप्रसङ्गः २३ अनित्यत्वग्रहाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् २४ ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः २५ नान्तःशरीरवृत्तित्वान्मनसः २६ साध्यत्वादहेतुः २७ स्मरतः शरीरधार-णोपपत्तेरप्रतिषेधः २८ न तदाशुगतित्वान्मनसः २९ न स्मरणकालानियमात् ३० आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ३१ व्यासक्तमनसः पाद-व्यथनेन संयोगविशेषेण समानम् ३२ प्रणिधानलिङ्गादिज्ञानानामयुगप-द्भावादयुगपत्स्मरणम् ३३ ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ३४ त-ल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३५ परश्वादिष्वारम्भनिवृत्ति-दर्शनात् ३६ नियमानियमौ तु तद्विशेषकौ ३७ यथोक्तहेतुत्वात्पारतन्त्र्या-दकृताभ्यागमाच्च न मनसः ३८ परिशेषाद्यथोक्तहेतूपपत्तेश्च ३९ स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ४० प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरि-ग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुख-दुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ४१ कर्मानवस्थायि-ग्रहणात् ४२ अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ४३ हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा ४४ प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणव-त्तद्ग्रहणम् ४५ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ४६ यावच्छरीर-भावित्वाद्रूपादीनाम् ४७ न पाकजगुणान्तरोत्पत्तेः ४८ प्रतिद्वन्द्विसिद्धेः पा-कजानामप्रतिषेधः ४९ शरीरव्यापित्वात् ५० न केशनखादिष्वनुपलब्धेः ५१ त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ५२ शरीरगुणवैधर्म्यात् ५३ न रूपादीनामितरेतरवैधर्म्यात् ५४ ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ५५ ज्ञानायौगपद्यादेकं मनः ५६ न युगपदनेकक्रियोपलब्धेः ५७ अलातचक्र-दर्शनवत्तदुपलब्धिराशुसंचारात् ५८ यथोक्तहेतुत्वाच्चाणु ५९ पूर्वकृतफला-नुबन्धात्तदुत्पत्तिः ६० भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ६१ न साध्य-समत्वात् ६२ नोत्पत्तिनिमित्तत्वान्मातापित्रोः ६३ तथाहारस्य ६४ प्राप्तौ चानियमात् ६५ शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ६६ एतेना-नियमः प्रत्युक्तः ६७ तददृष्टकारितमिति चेत्पुनस्तत्प्रसङ्गोऽपवर्गे ६८ मनः-कर्मनिमित्तत्वाच्च संयोगानुच्छेदः ६९ नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ७० अणुश्यामतानित्यत्ववदेतत्स्यात् ७१ नाकृताभ्यागमप्रसङ्गात् ७२ इति द्वितीय आह्निकः इति तृतीयोऽध्यायः चतुर्थोऽध्यायः प्रथम आह्निकः प्रवृत्तिर्यथोक्ता १ तथा दोषाः २ तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ३ नैकप्रत्यनीकभावात् ४ व्यभिचारादहेतुः ५ तेषां मोहः पापीयान्नामूढस्ये-तरोत्पत्तेः ६ निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ७ न दोषलक्षणा-वरोधान्मोहस्य ८ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ९ आत्मनित्यत्वे प्रेत्यभावसिद्धिः १० व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ११ न घटाद्घटानिष्पत्तेः १२ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः १३ अभावाद्भावोत्पत्ति-र्नानुपमृद्य प्रादुर्भावात् १४ व्याघातादप्रयोगः १५ नातीतानागतयोः कार-कशब्दप्रयोगात् १६ न विनष्टेभ्योऽनिष्पत्तेः १७ क्रमनिर्देशादप्रतिषेधः १८ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् १९ न पुरुषकर्माभावे फलानिष्पत्तेः २० तत्कारितत्वादहेतुः २१ अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् २२ अनिमित्तनिमित्तत्वान्नानिमित्ततः २३ निमित्तानिमित्तयोरर्थान्तरभावा-दप्रतिषेधः २४ सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् २५ नानित्यतानि-त्यत्वात् २६ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् २७ नित्यस्या-प्रत्याख्यानं यथोपलब्धिव्यवस्थानात् २८ सर्वं नित्यम्पञ्चभूतनित्यत्वात् २९ नोत्पत्तिविनाशकारणोपलब्धेः ३० तल्लक्षणावरोधादप्रतिषेधः ३१ नोत्प-त्तितत्कारणोपलब्धेः ३२ न व्यवस्थानुपपत्तेः ३३ सर्वं पृथग्भावलक्षण-पृथक्त्वात् ३४ नानेकलक्षणैरेकभावनिष्पत्तेः ३५ लक्षणव्यवस्थानादेवा-प्रतिषेधः ३६ सर्वमभावो भावेष्वितरेतराभावसिद्धेः ३७ न स्वभावसि-द्धेर्भावानाम् ३८ न स्वभावसिद्धिरापेक्षिकत्वात् ३९ व्याहतत्वादयुक्तम् ४० संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ४१ न कारणावयव-भावात् ४२ निरवयवत्वादहेतुः ४३ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ४४ न सद्यः कालान्तरोपभोग्यत्वात् ४५ कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ४६ प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् ४७ नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ४८ उत्पादव्ययदर्शनात् ४९ बुद्धिसिद्धं तु तदसत् ५० आश्रयव्यतिरे-काद्वृक्षफलोत्पत्तिवदित्यहेतुः ५१ प्रीतेरात्माश्रयत्वादप्रतिषेधः ५२ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ५३ तत्सम्बन्धात्फलनिष्प-त्तेस्तेषु फलवदुपचारः ५४ विविधबाधनायोगाद्दुःखमेव जन्मोत्पत्तिः ५५ न सुखस्याप्यान्तरालनिष्पत्तेः ५६ बाधनानिर्वृत्तेर्वेदयतः पर्येषणदोषाद-प्रतिषेधः ५७ दुःखविकल्पे सुखाभिमानाच्च ५८ ऋणक्लेशप्रवृत्त्यनुबन्धा-दपवर्गाभावः ५९ प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ६० समारोपणादात्मन्यप्रतिषेधः ६१ पात्रचयान्तानुपपत्तेश्च फलाभावः ६२ सुषुप्तस्य स्वप्नादर्शने क्लेशाभाववदपवर्गः ६३ न प्रवृत्तिः प्रतिसंधानाय हीन-क्लेशस्य ६४ न क्लेशसंततेः स्वाभाविकत्वात् ६५ प्रागुत्पत्तेरभावानित्य-त्ववत्स्वाभाविकेऽप्यनित्यत्वम् ६६ अणुश्यामतानित्यत्ववद्वा ६७ न संक- ल्पनिमित्तत्वाच्च रागादीनाम् ६८ इति प्रथम आह्निकः चतुर्थोऽध्यायः द्वितीय आह्निकः दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः १ दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः २ तन्निमित्तं त्ववयव्यभिमानः ३ विद्याविद्याद्वैविध्यात्संशयः ४ तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ५ वृत्त्यनुपपत्तेरपि तर्हि न संशयः ६ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ७ तेषु चावृत्तेरवयव्यभावः ८ पृथक्चावयवेभ्योऽवृत्तेः ९ न चावयव्यवयवाः १० एकस्मिन्भेदाभावा-द्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ११ अवयवान्तराभावेऽप्यवृत्तेरहेतुः १२ केश-समूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः १३ स्वविषयानतिक्रमेणेन्द्रियस्य पटु-मन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः १४ अवयवावयवि-प्रसङ्गश्चैवमाप्रलयात् १५ न प्रलयोऽणुसद्भावात् १६ परं वा त्रुटेः १७ आकाशव्यतिभेदात्तदनुपपत्तिः १८ आकाशासर्वगतत्वं वा १९ अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः २० शब्दसंयोगविभवाच्च सर्वगतम् २१ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः २२ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः २३ संयोगोपपत्तेश्च २४ अनवस्थाकारित्वा-दनवस्थानुपपत्तेश्चाप्रतिषेधः २५ बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुप-लब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः २६ व्याहतत्वा-दहेतुः २७ तदाश्रयत्वादपृथग्ग्रहणम् २८ प्रमाणतश्चार्थप्रतिपत्तेः २९ प्रमा-णानुपपत्त्युपपत्तिभ्याम् ३० स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ३१ मायागन्धर्वनगरमृगतृष्णिकावद्वा ३२ हेत्वभावादसिद्धिः ३३ स्मृति-संकल्पवच्च स्वप्नविषयाभिमानः ३४ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्व-प्नविषयाभिमानप्रणाशवत् प्रतिबोधे ३५ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ३६ तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ३७ समाधिविशेषाभ्यासात् ३८ नार्थविशेषप्राबल्यात् ३९ क्षुदादिभिः प्रवर्तनाच्च ४० पूर्वकृतफला-नुबन्धात्तदुत्पत्तिः ४१ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ४२ अपव-र्गेऽप्येवं प्रसङ्गः ४३ न निष्पन्नावश्यम्भावित्वात् ४४ तदभावश्चापवर्गे ४५ तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ४६ ज्ञानग्रह-णाभ्यासस्तद्विद्यैश्च सह संवादः ४६ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थि-भिरनसूयुभिरभ्युपेयात् ४७ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ४८ त-त्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखा- वरणवत् ४९ ताभ्यां विगृह्य कथनम् ५० इति द्वितीय आह्निकः इति चतुर्थोऽध्यायः पञ्चमोऽध्यायः प्रथम आह्निकः साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः १ साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य-वैधर्म्यसमौ २ गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ३ साध्यदृष्टान्तयोर्धर्मविकल्पा-दुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ४ किंचित्सा-धर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ५ साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ६ प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्रा-प्त्यप्राप्तिसमौ ७ घटादिनिष्पत्तिदर्शनात्पीडने चाव्यभिचारादप्रतिषेधः ८ दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ९ प्रतिदृष्टान्तहेतुत्वे च नाहेतु-र्दृष्टान्तः १० प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ११ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः १२ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नि-त्यानित्यसाधर्म्यात् संशयसमः १३ साधर्म्यात्संशये न संशयो वैधर्म्या-दुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या-प्रतिषेधः १४ उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः १५ प्रतिपक्षात्प्र-करणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः १६ त्रैकाल्यानुपपत्तेर्हेतो-रहेतुसमः १७ न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः १८ प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः १९ अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः २० अनुक्त-स्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः २१ एक-धर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः २२ क्वचि-त्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः २३ उभयकारणोपपत्ते-रुपपत्तिसमः २४ उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः २५ निर्दिष्टकारणा-भावेऽप्युपलम्भादुपलब्धिसमः २६ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः २७ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः २८ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः २९ ज्ञानविकल्पानां च भावाभावसंवेद-नादध्यात्मम् ३० साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ३१ साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसामर्थ्यात् ३२ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ३३ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ३४ प्रतिषेध्ये नित्यम-नित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ३५ प्रयत्नकार्यानेकत्वा-त्कार्यसमः ३६ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ३७ प्रति-षेधेऽपि समानो दोषः ३८ सर्वत्रैवम् ३९ प्रतिषेधविप्रतिषेधे प्रति-षेधदोषवद्दोषः ४० प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोष-प्रसङ्गो मतानुज्ञा स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा- भ्युपगमात्समानो दोषः ४१ इति प्रथम आह्निकः पञ्चमोऽध्यायः द्वितीय आह्निकः प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणम-ज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽप-सिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि १ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः २ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ४ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ६ प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ७ वर्णक्रमनिर्देशवन्निरर्थकम् ८ परि-षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ९ पौर्वापर्यायोगाद-प्रतिसम्बद्धार्थमपार्थकम् १० अवयवविपर्यासवचनमप्राप्तकालम् ११ हीन-मन्यतमेनाप्यवयवेन न्यूनम् १२ हेतूदाहरणाधिकमधिकम् १३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् १४ अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् १५ विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् १६ अविज्ञातं चाज्ञानम् १७ उत्तरस्याप्रतिपत्तिरप्रतिभा १८ कार्य-व्यासङ्गात्कथाविच्छेदो विक्षेपः १९ स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा २० निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् २१ अनि-ग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः २२ सिद्धान्तम-भ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः २३ हेत्वाभासाश्च यथोक्ताः २४ इति द्वितीय आह्निकः इति पञ्चमोऽध्यायः इति न्यायदर्शनम्