शिक्षा (Pāṇinīya Śhikṣhā) > पाणिनीयशिक्षा (Pāṇinīya Śhikṣhā)
पाणिनीय शिक्षा
प्रणम्य प्रणताभीष्टप्रदातारं पतिं श्रियः
बह्वृचानां सुबोधाय शमानं क्रियते लघु
विसर्जनीय आकारपूर्वको घोषवत्परः
व्यञ्जनस्वृक्षनपरो लुप्यते संहिताक्षणे
एषु वर्णक्रमात्तानि प्रवक्ष्यामि पदान्यहम्
इङ्ग्यं पृथक्पदं चात्र निमित्तत्वं पदस्य च
नानापदत्वमिङ्ग्यानां पूर्वभागस्त्ववग्रहः
निमित्तं गृह्यते यत्तत्पदमेवात्र लक्षणे
प्रथमांश्च द्वितीयांश्च हित्वा वर्ग्यास्त्रयस्त्रयः
अन्तस्थाश्च हकारश्च घोषवन्तः प्रकीर्तिताः
परिभाषा शमानस्य संग्रहेणैवमीरितम्
गजडाद्यास्त्रयो वर्णा दादयश्चैव बादयः
यादिवान्तो हकारश्च शसौ तावन्यसंयुतौ
इति परिभाषा