पाणिनीय शिक्षा
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ३१
गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ३२
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ३३
शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम्
काकस्वरं शिरसिगं तथा स्थानविवर्जितम् ३४
उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम्
निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ३५
प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन
मध्यन्दिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ३६
तारं तु विद्यात्सवने तृतीये शिरोगतं तच्च सदा प्रयोज्यम्
मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ३७
अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ३८
ञमोऽनुनासिका नह्रो नादिनो हझषः स्मृताः
ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः ३९
ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते
दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ४०