पाणिनीय शिक्षा
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ४१
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ४२
उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा
उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ४३
उदात्तं प्रदेशिनीं विद्यात् प्रचयं मध्यतोऽङ्गुलिम्
निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ४४
अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम्
मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ४५
अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती
अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ४६
हविषां मध्योदात्तं स्वरिति स्वरितं बृहस्पतिरिति द्व्युदात्तमिन्द्राबृहस्पती
इति त्र्युदात्तम् ४७
अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः
स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ४८
चाषस्तु वदते मात्रां द्विमात्रं चैव वायसः
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ४९
कुतीर्थादागतं दग्धमपवर्णं च भक्षितम्
न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्विषात् ५०