पाणिनीय शिक्षा
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ११
उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ
स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः १२
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च १३
ओभावश्च विवृत्तिश्च शषसा रेफ एव च
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः १४
यद्योभावप्रसन्धानमुकारादिपरं पदम्
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः १५
हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्
औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् १६
कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू
स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः १७
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः
ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ १८
अर्धमात्रा तु कण्ठ्यस्य ह्येकारौकारयोर्भवेत्
ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् १९
संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम्
घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः २०
इति पाणिनीय शिक्षा