पाणिनीय शिक्षा
स्वराणामूष्मणां चैव विवृतं करणं स्मृतम्
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च २१
अनुस्वारयमानां च नासिका स्थानमुच्यते
उपध्मानीय ऊष्मा च जिह्वामूलीयनासिके
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः २२
अलाबुवीणानिर्घोषो दन्तमूल्यः स्वरानुगः
अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च २३
अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये
द्विरोष्ठौ तु विगृह्णीयाद्यत्रौकारवकारयोः २४
व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत्
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् २५
यथा सौराष्ट्रिका नारी तक्राँ इत्यभिभाषते
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया २६
रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम्
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् २७
हृदये चैकमात्रस्तु अर्धमात्रस्तु मूर्धनि
नासिकायां त्वथार्धं च रङ्गस्यैव द्विमात्रता २८
हृदयादुत्कटे तिष्ठन्कांस्येन स्वमनुस्वरन्
मार्दवं च हिमात्रं च जघन्वाँ२ इति निदर्शनम् २९
मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समो भवेत्
सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ३०
इति परिभाषा